________________
CARRACOCOCCASGE
हउच्छ्ढदीहबाहू' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनाथ | गृह्यत इत्यादानः स चासौ परिघश्च आदानपरिष: 'उच्छूढ'त्ति अवक्षिप्त:-अर्गलास्थानानिष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीघौँ बाहू येषां ते तथा, 'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततलौ-लोहिततलौ अवपतितौ-क्रमेण हीयमानोपचयौ मृदुकौ | -कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालौ-अङ्गुल्यन्तरालसमूहरहितौ पाणी-हस्ती येषां ते तथा, पाठान्तरं रत्तत-18 लोवइयमंसलसुजायपसत्थलक्खणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शुभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरकोमलवरंगुलीया' इति पीवरा:-स्वशरीरानुक्रमोपचयाः कोमला-मृदबो वरा:-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिकाः, | पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् , 'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रा-ईपद्रक्ता: तलिना:-प्रतलाः शुचय:-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षा नखा:-कररुहा येषां ते तथा आताम्रतलिनशुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिक्सौवस्तिको-दिमोक्षको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिक्सौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिक्सौवस्तिकरेखाः, एतदनन्तरं कचिदेवं पाठ:--'रविससिसंखवरचक्कसोस्थियविभिन्न
सुविरइयपाणिरेहा' व्यक्तो नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्टु कृताः स्वकीयकर्मणा 'अणेगवरलक्खणुत्तमपसत्थसुइसारइयपाणिलेहा' अनेकैः-अनेकसयैर्वरैः-प्रधानैर्लक्षणैरुत्तमाः प्रशस्ता:-प्रशंसासदीभूताः शुचयः-पवित्रा रचिताः-खकर्मणा निष्पा
For Private Personal Use Only
Odiainelibrary.org
Jan Education in