________________
Jain Educatio
चितच्छोटिताः, स्नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावातू, केवलं छोटिता अपि तथास्वभावतया शाल्मलीत्रोण्डाकारवद् धननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशा विशदा - निर्मलाः प्रशस्ताः - प्रशंसास्पदीभूताः सूक्ष्मा:-लक्ष्णाः लक्षणा - लक्षणवन्तः सुगन्धाः - परमगन्धकलिता अत एव सुन्दरा:, तथा भुजमोचको - रत्नविशेषः भृङ्गः - प्रतीतः नीलो - मरकतमणि: कज्जलं प्रतीतं प्रहृष्टः प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृग्रहणं, तद्वत्स्निग्धा भुजमोचक भृङ्गनीलकज्जलग्रहप्रभ्रमरगणस्निग्धाः, तथा निकुरम्बा - निकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिला: प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-त्राला येषां ते शाल्मलीबोण्डघननिचितच्छोटितमृदु विशद प्रशस्त सूक्ष्म लक्षण सुगन्धसुन्दर भुजमोचक भृङ्गनील कज्जलप्रहप्रभ्रमरगण स्निग्धनिकुरम्ब निचितप्रदक्षिणावर्त्तमूर्द्धशिरोजा:, 'लक्खणर्वजणगुणोववेया' लक्षणानि - स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि गुणाः - शान्त्यादयस्तैरुपपेता - युक्ता लक्षणव्यञ्जनगुणोपपेताः 'सुजायसुविभत्तसुरूवगा' सुजातं - सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तं - अङ्गप्रत्यङ्गोपाङ्गानां यथोक्तवैविक्तत्यभावात् सुरूपं - शोभनं रूपं समुदायगतं येषां ते सुजातसुविभक्तसुरूपकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ ' उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह - गौतम ! ता मनुष्यः सुजातसर्वाङ्ग सुन्दर्यः - सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य:- सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना - अतिशायिनो ये महेलागुणाः- प्रियंवदत्वभर्तृचित्तानुवर्त्तकत्वप्रभृतयस्तैर्युक्ता - उपपेताः प्रधानमहेलागुणयुक्ताः 'कंत विसय मि सुकुमाल कुम्मसंठिवियसि -
For Private & Personal Use Only
www.jainelibrary.org