________________
कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झपस्येवोदरं येषां ते झपोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपलेपानीति भावः करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणा:, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मवद् विकटा-बिस्तीर्णा नाभिर्येषां ते पद्मविकटनाभाः, अत एव निर्देशादनान्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगु
रविकिरणतरुणवोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिमृभिर्वलिभिर्भङ्गरा | तरङ्गभङ्गुरा रविकिरणैः-सूर्यकरैस्तरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्बोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकचीभवदित्यर्थः पद्मं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताकोशाय-12 मानपद्मगम्भीरविकटनाभाः, 'उजुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडहसुकुमालमिउरमणिजरोमराई' ऋजुका-न वका समा-न काप्युदन्तुरा सहिता-सन्तता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्याद्दुर्जन्मा अत एव जात्या[प्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीतिकं भवति तत आह-निग्धा आदेया-दर्शनपथमुपगता | सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते-लडहा' सलवणिमा अत एव आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया-रम्या रोमराजि:-तनूरुहपतिर्येषां ते जुकसमसहितसुजातजात्यतनुकृष्ण स्निग्धादेवलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अघोऽध:क्रमेण नतौ पाचौं येषां ते सन्नतपार्थाः अधोऽध:क्रमावनतपार्था इत्यर्थः, तथा 'संगयपासा' इति संगतौ-देहप्रमाणोचितौ पाश्वौं येषां ते सङ्गतपार्था अत एव सुन्दरपार्थाः | 'सुजायपासा' इति सुनिष्पन्नपार्था: 'मियमाइयपीणरइयपासा' मितं-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीधौं पीनी-|
जी०च०४६
Jan Education International
For Private & Personal Use Only