________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
।। २६८ ।।
Jain Education,
+
| लसित्थे' इति सवाष्पानि - बाष्पं मुञ्चन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि - परिपूर्णानि सित्थूनि यत्र स सबाष्पमृदुविशदसकलसित्थुः, अनेकानि यानि शालनकानि - पुष्पफलप्रभृतीनि तै: | संयुक्तः - समुपेतोऽनेकशालनक संयुक्तः, तथा चामोदक इति सम्बन्धः किंविशिष्ट : ? इत्याह- परिपूर्णानि - समस्तानि द्रव्याणि - एला प्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो - यथोक्तमात्राग्नि- १ | परितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शैः सामर्थ्यादतिशायिभिर्युक्ताः सहिता बलवीर्यहेतवः परिणामा यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपता इति भावः, तत्र बलं - शारीरं वीर्य - आन्त रोत्साहः, 'इंदियवलपुट्ठिवद्धणे' इति, इन्द्रियाणां चक्षुरादीनां बलं - स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:- अतिशायी पोप इन्द्रियबलपुष्टिस्तां वर्द्धयति, नन्द्यादित्वादन:, इन्द्रियबलपुष्टिवर्द्धनः, तथा क्षुत्र पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधान:- कथितो यो गुडो यद्वा कथितं प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी - खण्डशर्करा यच प्रधानं घृतं तानि | उपनीतानि - योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स इव मोदक : लक्ष्णसमितिगर्भः - अतिश्लक्ष्णकणिक्का मूलदल: प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेक बहुविविधविस्रसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्तो यावत्प्रतिरूपाः ७ ॥ ' उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटकं खुडकाम (डका ए) कावलिः कण्ठसूत्रं मकरिका उरस्क
For Private & Personal Use Only
३ प्रतिपत्तौ उत्तरकुरु
वर्णनं
उद्देशः २
सू० १४७
॥ २६८ ॥
www.jainelibrary.org