SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ परस्परं नालप्रवेशेन संयोज्यते, प्रन्थिमं च वेष्टिमं च पूरिमं च सङ्घातिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिना-परमदक्षण शिल्पिना विभागरहितेन यद् यत्र योग्यं ग्रन्थिमं वेष्टिमं पूरिमं सङ्घातिमं च तत्र तेन सर्वत:-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैः -लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह-विप्रकृष्टैः-बृह्दन्तरालैः पञ्चवर्णैः कुसुमदामभिः शोभमानं 'वणमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृताग्रं तथाभूतं सद् दीप्यमानं, तथैव चित्राङ्गका अपि नाम छमगणा अनेकबहुविविधविस्रसापरिणतेन ग्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपका: ६ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे ॥ तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेदिति स म्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेता:, समासान्तविधेरनित्यत्वादत्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र. वरा:-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितात्मलाभा इति भावः, कमलशालितन्दुलाः, यच्च विशिष्टं-विशि-16 ष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्कं परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन, निष्पादितमित्यर्थः, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारदघृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत् , यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलैः सूपपुरुषैः-सूपकारैः पुरुषैः सज्जितो-निष्पादितः चतुष्कल्पसेकसिक्त इवौदनः, चत्वारश्च कल्पा: सेकविषया रसवतीशास्त्राभिज्ञेभ्यो भावनीयाः, स चौदनः किंविशिष्टः ? इत्याह-कलमशालिनिवर्तित:-कलमशालिमयो विपक्को-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक AAMACROSAGAR Jain Education Inter For Private & Personel Use Only M ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy