________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥२६७॥
३ प्रतिपत्तौ उत्तरकुरु| वर्णनं | उद्देश:२ सू०१४७
बहवो ज्योतिषिका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्कासहस्रं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूमज्वलित उज्ज्वल:-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतत्वात् , तत: सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते ? इत्याह-'निद्धंतधोये'त्यादि, निर्मातेन-नितरामग्निसंयोगेन यद् धौत-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानां पुजाः ये च मणिरत्नकिरणाः यश्च जात्यहिङ्गुलकनिकरस्तद्रूपेभ्योऽप्यतिरेकेण-अतिशयेन यथायोग वर्णत: प्रभया च रूप-स्वरूपं येषां ते निर्मातधौततप्ततपनीयकिंशुकाशोकजपाकुसुमविमुकुलितपुञ्जमणिरत्नकिरणजात्यहिङ्गलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योति|षिका अपि दुमगणा अनेकबहुविविधविश्रसापरिणतेनोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपा: ५॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणाः प्रज्ञमा हे श्रमण! हे आयुष्मन् ! यथा तत् प्रेक्षागृह विचित्रं-नानाविधचित्रोपेतम् , अत एव रम्यं-रमयति मनांसि द्रष्टणामिति रम्यं, बाहुलकात् कर्तरि यप्रत्ययः, वराश्च ताः कसमदाममालाश्व-प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्ज्वलं, तथा भावान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुखोपचारस्तेन क|लितं भावन्मुक्तपुष्पपुजोपचारकलितं, तत: पूर्वपदेन विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं-अतीव परिपुष्टं विरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा प्रन्थिम-यत् सूत्रेण प्रथितं वेष्टिमं-यत्पुष्पमुकुट इव उपर्युपरि शिखराकृत्या मालास्थापनं पूरिमं-यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिम-यत्पुष्पं पुष्पेण
॥२६७॥
Jain Education Internal
For Private & Personel Use Only
Diginelibrary.org