________________
Jain Education Inte
तैलादिरूपो यस्य तत् पर्याप्तस्नेह, 'धणिउज्जालिए' इति धणियं - अत्यर्थमुज्वालितम् अत एव तिमिरमर्दकं - तिमिरनाशकं, पुनः | किंविशिष्टमित्याह - ' कणगनिगरण कुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालितं कनकमिति भाव: कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम्, एतावता समुदायविशेषणमुक्तम्, इदानीं समुदाय समुदायिनोः कथञ्चिद्भे (दभे) द इति ख्यापयन् समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह – ' कंचणमणिरयणे 'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः कथम्भूताभिर्दीपिकाभिः ? अत आह-काञ्चनमणिरत्नानां काञ्चनमणिरत्नमया विमला:- स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हाः विचित्रा - विचित्रवर्णोपेता दण्डा यासां ताः काञ्चनमणिरत्नविमल महार्हविचित्रदण्डास्ताभि:, तथा सहसा - एककालं ज्वालिताश्च ता उत्सर्पिताञ्च वयुत्सर्पणेन सहसा प्रज्वालितोत्सर्पिताः, स्निग्धं मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो- रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन प्रहगणो- ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदद्वयपद्द्द्वयमीलनेन कर्म्मधारय समासः, | सहसा प्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलग्रहग णसमप्रभास्ताभि:, तथा वितिमिरा: करा यस्यासौ वितिमिरकरः स चासौ सूरश्च वितिमिरकरसूर स्तस्येव यः प्रसरति उद्योतः - प्रभासमूहस्तेन 'चिल्लियाहिं' ति देशीपद्मेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा - अभिरमणीया ज्वालोज्ज्वलप्रहसिताभिरामास्ताभि:, अत एव शोभमानाभि: शोभमानाः, तथैव दीपशिखा अपि द्रुमगणा अनेकबहुविविधविश्र सापरिणतोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्त इत्यादि प्राग्वद् यावत् प्रतिरूपा इति ४ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे
For Private & Personal Use Only
ainelibrary.org