SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ २६६ ॥ Jain Education Int ढक्का, होरम्भा - महाढक्का, क्वणिता- काचिद् वीणा, खरमुखी - काहला, मकुन्दो - मरुजवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, श ङ्खिका - लघुशङ्खरूपा तस्या: खरो मनाक् तीक्ष्णो भवति नतु शङ्खस्येवातिगम्भीरः, पिरलीवञ्चको तृणरूपवाद्यविशेषौ परिवादिनी| सप्ततन्रीवीणा वंशः -प्रतीतो वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः, विपश्वी-तत्री वीणा महती - शततन्त्रिका, कच्छभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूता: ? इत्याह- 'तलताल कंसतालसुसंपउत्ता' तलं हस्तपुढं तालाः - प्रतीताः कांस्यताला : - कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्ठु - अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः - संबद्धा आतोद्यविधयः - आतोद्यभेदाः, पुनः कथम्भूता: ? | इत्याह- 'निउणगंधव्व समय कुसलेहिं फंदिया' इति निपुणं यथा भवति एवं गन्धर्वसमये - नाट्यसमये कुशलास्तैः स्पन्दिता - व्यापारिता इति भावः पुनः किंविशिष्टाः ? इत्याह- 'त्रिस्थान करणशुद्धाः ' आदिमध्यावसानरूपेषु त्रिषु स्थानेषु करणेन - क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः, तथैव ते तुटिताङ्गका अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन, अस्य व्याख्यानं प्राग्वत्, 'ततविततघनशुपिरेण' ततं - वीणादिकं विततं - पटहादिकं घनं - कांस्यतालादि शुषिरं - वंशादि एतद्रूपेण चतुर्विधेनातोद्य विधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला: मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ३ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् 'सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये - तदवसरे नवनिधिपते:- चक्रवर्त्तिन इव दीपिकाचक्रवालवृन्दं - इखो दीपो दीपिका तासां चक्रवालं - सर्वे परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्दं, कथम्भूतमित्याह - 'प्रभूतवर्त्ति' प्रभूता - बहुसङ्ख्याकाः स्थूरा वा वर्त्तयो यत्र तत्तथा, तथा 'पलित्तने 'ति पर्याप्तः - प्रतिपूर्णः स्नेहः For Private & Personal Use Only X ३ प्रतिपत्तौ उत्तरकुरुवर्णनं उद्देशः २ सू० १४७ ॥ २६६ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy