________________
संभृताः 'विष्यन्दन्ति' स्रवन्ति, सामर्थ्यात्तानेवानन्तरोदितान् मद्यविधीन , क्वचित् 'विसद्देति' इति पाठस्तत्र विकसन्तीति व्याख्येयं, किमुक्तं भवति ? तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, । 'मूलवन्त' इत्यादि प्राग्वद् यावत्प्रतिरूपका इति १ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'जहा से' इत्यादि, यथा ते करकपटकक-|| लशकर्करीपादकाचनिकाउदङ्कवा नीसुप्रतिष्ठकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, - एते प्रायः प्रतीताः, नवरं पादकाञ्चनिका-पादधावनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वा नी-गलन्तिका सरको-वंशमयच्छिक्काः शिकाकृति: अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कथम्भूताः? इत्याह -काञ्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः ? इत्याह-बहुप्रकारा:, एकैकस्मिन् विधाववान्तरानेकभेदभावात् , तथैव ते भृङ्गाङ्गका अपि द्रुमगणा: 'अणेगबहुविविहविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूल-IN वन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, 'जहा से' इत्यादि, यथा ते आलिमय(मुरव)मृ-| दङ्गपणवपटहदर्दरककरटिडिण्डिमभम्भाहोरम्भाकणिताखरमुखीमकुन्दशङ्घिकापिरलीवञ्चकपरिवादिनीवंशवेणुवीणासुघोषाविपञ्चीमहती
कच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इति आलिङ्गयः मुरवः-वाद्यविशेषः, एष यकारान्तशब्दः, मृदङ्गो-लघुमर्दलः, पणवो-भाण्डद पटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिम:-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्भा
Jain Education Intel
For Private & Personel Use Only
Vijainelibrary.org