________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २६५ ॥
Jain Education Inter
तप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससार बहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधुमेरको - मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति: - आस्वादतः क्षीरसदृशी, प्रसन्नासुराविशेषः, नेल्लकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खज्जूरमुद्दियासार' इति अत्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खर्जूरसारो मृद्वीकासारः, तत्र ण (मू) लदुलखर्जूरसारनिष्पन्न आसव विशेषः खर्जूरसारः, मृद्वीका - द्राक्षा तत्सारनिष्पन्न आसवविशेषो मृद्वीकासारः, कापिशायितं - मद्यविशेषः, सुपक:- सुपरिपाकागतो यः क्षोदरस- इक्षुरसस्त निष्पन्ना वरसुरा सुपकक्षोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः ? इत्याह- 'वन्नगंधर सफासजुत्तबलविरियपरिणामां' वर्णेन सामर्थ्यादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ताः सहिता बलवीर्यपरिणामा - बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति ? - परमातिशयसंपन्नैर्वर्णगन्धरसस्पर्शैर्बलहेतुभिर्वीर्य परिणामैश्चोपेता इति पुनः किंविशिष्टाः ? इत्याह- 'बहुप्रकारा:' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकारा:, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योग:, किंविशिष्टेन मद्यविधिना ? इत्यत आह'अणेगबहुविविहवीससापरिणयाए' इति न एक: अनेक:, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तत आह-बहु-प्रभूतं विविधो- जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादितोऽपि संभाव्यते तत आह - विश्रसया - स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्म्मधारयः, सूत्रे च स्त्रीत्वनिर्देश: प्राकृतत्वात् ते च मद्यविधिनोपपेता न ताडादिवृक्षा इवाङ्कुरादिषु किन्तु फलेषु तथा चाह - 'फलेहिं पुण्णा वीसंदंति' अत्र सप्तम्यर्थे तृतीया 'व्यत्ययोऽप्यासा' मिति वचनात् फलेषु मद्यविधिभिरिति गम्यते 'पूर्णा : '
For Private & Personal Use Only
३ प्रतिपत्तौ
उत्तरकुरुवर्णनं
उद्देशः २
सू० १४७
॥ २६५ ॥
ainelibrary.org