________________
|अतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निचं कुसुमियाओं' इत्यादि विशेषणजातं प्राग्वत् ‘जाव पडिरूवाओ' इति।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्वयो वनराजयः प्रज्ञताः, इहैकानेकजातीयानां वृक्षाणां पतयो वनराजयस्तत: पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताश्च वनराजयः प्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् अणेगरहजाणजुग्गगिल्लिथिल्सिीयसंदमाणियपडिमोयणाओ सुरम्माओ जाव पडिरूवाओं' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, किंविशिष्टास्ते ? इत्याह-यथा ‘से चंदप्पभमणिसलाग' इत्यादि, यथा चन्द्रप्रभादयो 61 मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तत् सीधु च वरसीधु, वरा च सा वारुणी च वरवारुणी 'सुजायपुन्नपुप्फफलचोयनिजाससारबहुदव्वजुत्तिसंभारकालसंधियआसव' इति इहासव:-पत्रादिवासकद्रव्यभेदादनेकप्रकारः, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे-पत्तासवेइ वा पुप्फासवेइ वा फलासवेइ वा चोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससार: पुष्पनिर्याससारः फलनिर्याससारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो-धातकीपत्ररसस्तत्प्रधान आसव: पत्रनिर्याससार:, एवं पुष्पनिर्याससारः फलनियोससारश्च परिभावनीयः, चोयो-गन्धद्रव्यं तन्निर्याससारश्वोयनिर्याससारः, सुजाता:-सुपरिपाकागता:, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनांक द्रव्याणामुपबृंहकाणां युक्तयो-मीलनानि तासां संभार:-प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभारा:, पुनः कथम्भूताः ? इत्याह-कालसं-| धिय' इति कालसन्धिताः सन्धानं सन्धा काले-स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादि
जी०च०४५
Jain Education
For Private
Personal Use Only
jainelibrary.org