________________
न्धवेयकं श्रोणीसूत्रकं चूडामणिः कनकतिलकं फुल्लकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चक्रकं तलभङ्गक तुडितं हस्तमालक ह-15 र्षकं केयूरं वलयं प्रालम्बमङ्गुलीयकं वलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किङ्किणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकत: प्रत्येतव्याः, कथम्भूता:? इत्याहकाञ्चनमशिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावत्प्रतिरूपा इति ८ ॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुयु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र
प्रदेशे बहवो गेहाकारा नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन ! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमठण्डपैकशालकद्विशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तव्यस्रचतुरस्रनन्द्यावर्त्तसंस्थितानि पापाण्डुरतलहम्य मुण्डमालहय, अथवा धवलगृहाणि अर्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधि
कोष्ठकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगें' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह-'विडंगे'त्यादि, विटङ्क:-कपोतपाली जालवृन्द-गवाक्षसमूहः नि!हो-गृहकदेशविशेषः अपवरकः-प्रतीत: चन्द्रशालिका-शिरोगृहं, एवरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि दुमगणा अनेकबहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह-'सुहारहणसुहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध गमनं सुखेनोत्तार:-अधस्तादवतरणं यस्य दर्दरसोपानपतयादिभिः स सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तार: ? इत्याह-दर्दरसोपानपङ्गिकलितेन, हेतौ तृतीया, ततोऽयमर्थ:-यतो दर्दरसोपानपतिक
ॐकर
Join Education Intel
For Private & Personal use only
S
ainelibrary.org