________________
___ 'से किं तमित्यादि, अथ के ते बादराप्कायिका:?, सूरिराह-बादराकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावत्करणादेवं परिपूर्णपाठो द्रष्टव्य:-“करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए| अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य" अपजत्तगा य, तत्थ णं जे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति, अस्य व्याख्या-अवश्यायःत्रेहः, हिम-स्त्यानोदकं, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-घनोपल:, हरतनुः यो भुवमुद्भिद्य गोधूमाकरतृणावादिषु बद्धो बिन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदकं-नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदकं-स्वभावत एव कचिन्निर्झरादावुष्णपरिणाम, क्षीरोदकम्-ईपल्लवणपरिणाम यथा लाटदेशादौ केषुचिदवटेषु, खट्टोदकम्-ईषदम्लपरिणामम् , आम्लोदकम्-अतीव स्वभावत एवाम्लपरिणामं काजिकवत् , लवणोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् धृतोदकायो बादराप्कायिकास्ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत् नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि । 'तेसि णं भंते ! जीवाणं कइ सरीरगा' १ इत्यादिद्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि,
जी०च०५
Jain Education in
For Private
Personal Use Only
R
ainelibrary.org