________________
जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उत्तरेण' उत्तरत: नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरथिमेणं'ति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् अत्र' एतस्मिन् प्रदेश उत्तरकुरवो नाम कुरव: प्रज्ञप्ताः, सूत्र एकवचननिर्देशोऽकारान्ततानिर्देशश्च प्राकृतत्वात् , ताश्च कथम्भूता: ? इत्याह-पाईणे'त्यादि, प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्णा अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य 'विष्कम्भेन' दक्षिणोत्तरतया विस्तारेण, तथाहि-महाविदेहे मेरोरुत्तरत उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तस्याद्ध यावत्परिमाणमेतावत्प्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः, उक्तं च-“वइदेहा विक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्खंभं जाणसु” इति, स च यथोक्तप्रमाण एव, तथाहि-महाविदेहे विष्कम्भत्रयस्त्रिंशद् योजनसहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कला: ३३६८४ क. ४, एतस्मान्मेरुविष्कम्भो दश योजनसहस्राणि शोध्यन्ते १०००० स्थितानि पश्चात्रयोविंशतिः सहस्राणि पट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कला: २३६८४ क. ४, एतेषामद्धे लब्धान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले ११८४२ क. २ ॥ 'तीसे' इत्यादि, तासामुत्तरकुरूणां जीवा उत्तरतो नीलवर्षधरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धमादनं च 'स्पृष्टा' स्पृष्टवती, एतदेव भावयति-पुरथिमिल्लाए' इत्यादि, पूर्वया 'कोट्या' अग्रभागेन पूर्व वक्षस्कारपर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमदिगवलम्विन्या कोट्या पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा, सा च जीवा
Jain Education inte
For Private & Personel Use Only
M
ainelibrary.org