________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २६३ ॥
Jain Education Inte
आयामेन त्रिपञ्चाशद् योजनसहस्राणि कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालवनस्य यदायामेन परिमाणं यज्ञ मेरोर्विकम्भस्य तदेकत्र मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्वपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां जीवायाः परिमाणम् उक्तं च- "मंदरपुब्वैणायय बावीस सहस्स भदसालवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा ॥ १ ॥” तच्च यथोक्तप्रमाणमेव, तथाहि - मेरो: पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्घ्यपरिमाणं द्वाविंशतिर्योजन सहस्राणि ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोश्च पृथुत्वपरिमाणं दश योजनसहस्राणि १००००, तानि पूर्वराशौ प्रक्षिष्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि ५४०००, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकं मूले पृथुत्वं पञ्च योजनशतानि ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहस्रं तन् पूर्वराशेरपनीयते, जातानि त्रिपञ्चाशद् योजनसहस्राणि ५३००० | 'तीसे धणुपट्ट' मित्यादि, तासामुत्तरकुरूणां धनुः पृष्टं 'दक्षिणेन' दक्षिणतः, तच पष्टिर्योजन सहस्राणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादन माल्यवद्वक्षस्कार पर्वतयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुः पृष्ठपरिमाणं, “आयामो सेलाणं दोन्ह व मिलिओ कुरूण धणुपट्टे" इति वचनात् गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहस्राणि द्वे शते नवोत्तरे षट् च कलाः ३०२०९क० ६, उभयोध मिलित आयामो यथोक्तपरिमाणो भवति ६०४१८ क० १२ । 'उत्तरकुराएणं भंते!' इत्यादि, उत्तरकुरूणां भदन्त ! कुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्वरूपस्य प्रत्यवतारः - सम्भवः प्रज्ञप्तः १, भगवानाह - गौतम ! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः, 'से जहानामए - आलिंगपुक्खरेइ वा इत्यादि जगत्युपरि वनष
For Private & Personal Use Only
३ प्रतिपत्तौ उत्तरकुरुवर्णनं
उद्देशः २
सू० १४७
॥ २३३ ॥
ainelibrary.org