SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte स्तारः प्रत्येकं २ चत्वारि २ योजनानि ततश्चतुर्ष्वपि द्वारेषु सर्वसझया कुड्य द्वार प्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च परिधि - स्तिस्रो लक्षाः पोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७ क्रोशत्रयं ३ अष्टाविंशं धनुः शतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुल १३ || मिति, अस्माच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुयद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषु च तेषु परिधिसत्को योजनराशिरेवंरूपो जातः तिस्रो लक्षाः षोडश सहस्राणि द्वे शते नवोत्तरे ३१६२०९, शेषं तथैव ततो योजनराशेचतुर्भिर्भागो हियते, लब्धानि योजनानामेकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि गत्र्यूतं चैकं ७९०५२ क्रो० १, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुस्त्वेन क्रियन्ते लब्धानि धनुषां पट् सहस्राणि यदपि च परिधिसत्कमष्टाविंशं धनुःशतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनूरा शिरेकषष्टिः शतान्यष्टाविंशत्यधिकानि ६१२८, एषां चतुर्भिर्भागो हियते, लब्धानि धनुषां पञ्चदश शतानि द्वात्रिंशदधिकानि १५३२, यान्यपि च त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अडलानि, एतदपि सर्व देशोनमेकं गव्यूतमिति लब्धं देशोनमर्द्धयोजनं, उक्तं च "कुडदुवारपमाणं अट्ठारस जोयणाई परिहीए । सो हिय चउहि विभत्तं इणमो दारंतरं होई || १ || अउणासीइ सहस्सा बावण्णा अद्धजोयणं नूणं । दाररस य दारस्स य अंतरमेयं विणिहिं ॥ २ ॥ " जंबुद्दीवस णं भंते! दीवस्स पएसा लवणं समुदं पुट्ठा ?, हंता पुट्ठा ॥ ते णं भंते! किं जंबुद्दीवे २ १ क्रुज्यद्वारप्रमाणमष्टादश योजनानि परिधेः । शोधयित्वा चतुर्भिर्विभक्ते इदं द्वारान्तरं भवति ॥ १ ॥ एकोनाशीतिः सहस्राणि द्विपञ्चाशत् अर्धयोजनमूनं द्वारस्य द्वारस्य चान्तरमेतत् विनिद्दिष्टं ॥ २ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy