________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती | विजयदे
वकृता जिनपूजा उद्देशः २ | सू०१४२
॥२५५॥
CAR SACSCGO
तीर्थ तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्त्वलोकस्तस्य सकलकल्याणैकनिवन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्य: तथा लोकस्य-भव्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो-बीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायात्मकस्य वा हितोपदेशेन सम्यक्प्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्वं-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्यो|तकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति | तेभ्यः, तथाऽभयं-विशिष्टमासनः स्वास्थ्यं नि:श्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात् , एवमन्यत्रापि, तथा चक्षुरिव चक्षु:-विशिष्ट आत्मधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात् , तद्ददातीति चक्षुर्दास्तेभ्यः, तथा मागों-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान
॥२५५॥
Jain Education Inter
For Private
Personal Use Only
XMainelibrary.org