________________
Jain Education Int
कान्यालिखति, आलिख्य 'कयग्गाहगहिय' मित्यादि मैथुन प्रथमसंरम्भे मुखचुम्बनाद्यर्थे युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं कचग्राहस्तेन कचप्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः तेन ' दशार्द्धवर्णेन ' पश्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुञ्जोपचारकलितं' पुष्पपुञ्ज एवोपचारः - पूजा पुष्पपुञ्जोपचारस्तेन कलितं - युक्तं करोति, कृत्वा च 'चंदप्पभवइरवेरुलिय विमलदंड' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवर कुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदन्यत्ययः, तां धूपवत्तिं विनिर्मुश्वन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पञ्चाद|पसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अहसयविसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इति भाव: यो प्रन्थः - शब्दसंदर्भस्तेन युक्तानि विशुद्धप्रन्थयुक्तानि अष्टशतं च तानि विशुद्धप्रन्थयुक्तानि च तैः 'अर्थयुक्तैः' अर्थसारैः अपुनरुक्तैः | महावृत्तै:, तथाविधदेवलच्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं 'अञ्चति' उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थः ' त्रिकृत्वः' त्रीन् वारान् मूर्द्धानं धरणितले 'नमेइ'त्ति नमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ 'संहरति' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वैवमवादीत् — 'नमोऽत्यु णमित्यादि, नमोऽस्तु णमिति वाक्यालङ्कारे देवादिभ्यो ऽतिशयपूजामर्द्दन्तीत्यन्तस्तेभ्यः सूत्रे षष्ठी “छट्ठिविभत्तीऍ भन्नइ चउत्थी" इति प्राकृतलक्षणात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावात्प्रतिपत्त्यर्थमाह – 'भगवद्भ्यः' भगः -समत्रैश्वर्यादि| लक्षण: स एषामस्तीति भगवन्तस्तेभ्यः, आदिः - धर्म्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला आदिकरास्तेभ्यः, तीर्थते संसारसमुद्रोऽनेनेति
For Private & Personal Use Only
ininelibrary.org