SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Jain Education Int | मुक्त्वा विघाटयति विधाट्यानुप्रवाचयति अनु- परिपाट्या प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा 'धार्मिक' धर्मानु गतं व्यवसायं व्यवस्यति, कर्तुमभिलपतीति भाव:, व्यवसायसभायाः शुभाव्यवसायनिबन्धनत्वान्, क्षेत्रादेरपि कर्मक्षयोपशमादिहेतुत्वात् उक्तच्च — “उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥” इति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरनं प्रतिनिक्षिपति प्रतिनिक्षिप्य सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वा नन्दापुष्करिणी तत्रैवोपागच्छति उपागत्य नन्दां पुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य हस्तपादौ प्रक्षालयति प्रक्षाल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्त करिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्दातः पुष्करिणीतः प्रत्युत्तरति * प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय || 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवारा अग्रमहिष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः पोडशात्मरक्षदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या बानमन्तरा देवाश्च देव्यश्च अप्येकका उत्पलहस्तगता अध्येककाः पद्महस्तगता अध्येककाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीक महापुण्डरीकशतपत्र सहस्रपत्र शतसहस्रपत्र हस्तगताः क्रमेण प्रत्येकं वाच्या, विजयं देवं पृष्ठतः पृष्ठतः परिपाठ्येति भावः अनुगच्छन्ति । 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य बहुव आभियोग्या देवा देव्यश्च अप्येकका वन्दनकलशहस्तगता: अध्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगताः एवं स्थालपात्रीसुप्रतिष्ठवातकरक चित्ररत्नकरण्डक For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy