________________
३ प्रतिपत्ती
विजयदेका वकृता जिनपूजा
सू० १४२
श्रीजीवा- धवलं-श्वेतं कनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाश- जीवाभि० स्फटिक नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववस्त्रयुग्मं निवस्ते' परिधत्ते, परिधाय हारादीन्या- मलयगि- भरणानि पिनाति, तत्र हारः-अष्टादशसरिक: अर्द्धहारो-नवसरिक; एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी रीयावृत्तिः कनकावली-कनकमणिमयी प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मन: प्रमाणेन स्वप्रमाण आभरणविशेष: कट-
कानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाहाभरणविशेषा 'दशमुद्रिकाऽनन्तक' हस्ताङ्गुलिसम्बन्धि ॥२५३॥
मुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-चूडामणि म सकलपार्थिवरत्नसर्वसारो देबेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउड मिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः सङ्कटः चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः । 'तं दिव्यं सुमणदामंति 'दिव्यां' प्रधानां पुष्पमालाम् ॥ 'तए णं से विजए' इत्यादि, ग्रन्थिम-ग्रंथनं ग्रन्थस्तेन निर्वृत्तं प्रन्थिमं 'भावादिमः प्रत्ययः' यत् सूत्रादिना प्रध्यते तद् ग्रन्थिममिति भावः, भरिमं यद् प्रन्थितं सद् वेष्ट्यते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन
वंशशलाकादिमयपञ्जरी पूर्यते, सङ्घातिमं यत्परस्परतो नालसङ्घातेन सङ्घात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमहालङ्कृतविभूषितं करोति कृत्वा परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कारसभात: पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसाय
सभा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुखः सन्निषण्ण: । 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति ।। 'तए णमित्यादि, ततः स विजयो देवः पुस्तकरनं गृहाति गृहीत्वा पुस्तकरनमुत्सङ्गादाविति गम्यते मुञ्चति
॥२५३।।
Jain Education Inter
For Private Personel Use Only
Mainelibrary.org