SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ स्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सव्विड्डीए जाव निग्घोसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २त्ता सभं सुधम्मं पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव मणिपेढिया तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सण्णि सपणे ॥ (सू०१४२) 'तए ण'मित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अतिशयेन महता इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभात: पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुख: संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम्' अलङ्कारयोग्यं भाण्डमुपनयन्ति ।। 'तए ण'मित्यादि, ततः स विजयो देवस्तत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकापायिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्ष्यति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह-'नासानीसासवायवझं नासिकानिःश्वासवातवाह्यं, एतेन श्क्ष्णतामाह्, 'चक्षुहर' चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितत्वाञ्चक्षुहरं 'वर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनातिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं 'नाम नाम्नकार्ये समासो बहुल'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, जीच०४३ Jain Education Intel For Private Personal use only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy