________________
A%AR
समायोगात, ततो भवन्ति वर्णाद्यादेशैः सहस्राप्रशो भेदाः, 'संखिज्जाई जोणिप्पमुहसयसहस्साईति सयेयानि योनिप्र-1 मुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः पृथिवीकायिकानां, सा पुननिधासचित्ताऽचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्ख्येयानि पृथ्वीकायिकानां यो| निशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साएं' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति-13 उत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असङ्ख्येया:-सङ्ख्यातीता अपर्याप्तकाः । 'एएसि णं भंते! जीवाण'मित्यादिना शरीरावगाहनादिद्वारकलापचिन्तां करोति, सा च पूर्ववत् , तथा चाह-एवं जो चेव सुहुमपुढविकाइयाणं गमो सो चेव भाणियवो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात् , तथाहि 3 -व्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्छयाऽऽमीयरत्नकुण्डलादावप्युत्पद्यन्ते, ते च तेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अप्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लेसे उववजइ” इति वचनात् , ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारो नियमात् षड्दिशि, बादराणां लोकमध्य एवोपपातभावात् , उपपातो देवेभ्यो|ऽपि, बादरेषु तदुत्पादविधानात् , स्थितिजघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, देवेभ्योऽप्युत्पादात् व्यागतयो, द्विगतयः || पूर्ववत् , एतेऽपि च 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, 'सेत्त'मित्याद्युपसंहारवाक्यम् ॥ उक्ताः पृथ्वीकायिकाः, अधुनाऽप्कायिकानभिधित्सुरिदमाह
ACCOACANA:-
For Private Personal Use Only
in Eduent an URT
Ki.jainelibrary.org