SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Jain Education 'करयल परिग्गहिय 'मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता- निष्पादिता करतलपरिगृहीता ताम्, आवर्त्तनमावर्त्तः शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता, कण्ठेकाल उरसिलोमेत्यादिवदलुक्समासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्द्धापयन्ति जय त्वं देव! विजय त्वं देव! इत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जय :- परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु - परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च वर्द्धापयित्वा एवमवादिपुः - ' एवं खलु देवाणुपियाण' मित्यादि पाठसिद्धम् । 'तए 'मित्यादि, 'ततः' एतद्वचनानन्तरं विजयो देवस्तेषां सामानिकप दुपपन्नकानां - सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थ 'श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'essचित्तमाणंदिए' इति दृष्टतुष्टोऽतीव तुष्ट इति भावः अथवा हृष्टो नाम विस्मयमापन्नो यथा शोभनमहो ! एतैरुपदिष्टमिति, 'तुष्टः ' तोपं कृतवान् यथा भव्यमभूद् यदेतैरित्यमुपदिष्टमिति, तोपवशादेव चित्तमानन्दितं स्फीतीभूतं दुदु समृद्धौ' इति वचनात् यस्य स चित्तानन्दितः भार्यादिदर्शनात्पानिको निष्ठान्तस्य परनिपातः मकार: प्राकृतत्वादलाक्षणिकस्ततः पत्रयस्थ पदद्वय २ मीलनेन कर्मधारय:, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाऽर्चनविषयवहुमानपरायणमना इति भाव:, ततः क्रमेण बहुमानोत्कर्षवशान 'परमसोमणस्सिए' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परम सौमनस्यं तत्संजातमस्मिन्निति परमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह - 'हरिसवसविप्पमाणहियए' हर्षवशेन विसम्पद् विस्तारयायि हृदयं यस्य स हृवशविद्धृदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदृष्यं परिधत्ते परिधाय च उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हृदस्तत्रोपगच्छति, उपागत्य दक्षिणीकृत्य पूर्वेग तोरणेन हृदमनुप्रविशति प्रविश्य च For Private & Personal Use Only GAMM w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy