SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभिः मलयगिरीयावृत्तिः ।। २४२ ।। Jain Education In ‘तेणं कालेणं तेणं समएणं’ इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूयान्तरिते प्रथमतोऽङ्गुलायेय भागमात्रयाऽवगाहनया समुत्पन्नः ॥ 'तर ण'मित्यादि, सुगमं नवरमिह भाषामनः पर्याप्त्योः समाप्तिकालान्तरस्य । प्रायः शेषपर्याप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति पंचविहाए पत्तीए पंजत्तिभावं गच्छइ' इत्युक्तम् ॥ 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याया पर्याप्तभावं गतस्य सतोऽयम्-एतद्रूपः संकल्पः समुदपयत, कथम्भूतः ? इत्याह- 'मनोगतः' मनसि गतो - व्यवस्थितो नाद्यापि वचसा प्रकाशित स्वरूप इति भावः पुनः कथम्भूतः ? इत्याह- 'आध्यात्मिकः आसन्यधि अध्यात्मं तत्र भव आध्यात्मिक आत्मविषय इति भाव:, सङ्कल्पश्च द्विधा भवति-कचिदध्यात्मिकोऽपर चिन्तामकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-- 'चिन्तित ः ' चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलापालको भवति कश्चिदन्यथा, तत्रायमभिलापात्मकस्तथा चाह - प्रार्थनं प्रार्थी णिजन्तादच् प्रार्थः संजातोऽस्मिन्निति प्रार्थितोऽभिलापासक इति भाव:, किस्वरूपः ? इत्याह- किं मे' इत्यादि, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीयं, तथा किं मे पूर्व कर्त्तुं श्रेयः किं मे पश्चात्कर्त्तुं श्रेयः, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय - परिणामसुन्दरतायै सुखाय - शर्मणे क्षेमायेति अयमपि भावप्रधानो निर्देश: संगतत्वाय निःश्रेयसाय निश्चित कल्याणाय अनुगामिकतायै - परम्प रया शुभानुबन्धसुखाय भविष्यतीति । 'तए ण' मित्यादि, 'ततः' एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामाणिय परिसोववन्नगा देवा' इति सामानिका: पर्पदुपपन्नकाश्च - अभ्यन्तरादिपर्षदुपगता: 'इमम्' अनन्तरोक्तम् 'एतद्रूपम्' अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितं प्रार्थितं मनोगतं सङ्कल्पं समभिज्ञाय 'जेणेवे 'ति यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागम्य च For Private & Personal Use Only प्रतिपत्ता विजय दे वाभिषेकः उद्देशः २ सू० १४१ ।। २४२ ।। jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy