________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २४३ ॥
Jain Education Inte
हदे प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, ततः 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनचोक्षः - स्वल्पस्यापि शङ्कितमलस्यापनयनातू, अत एव परमशुचिभूतो हृदात् प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैत्रोपागच्छति, उपागत्याभिषेक सभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यन्त्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः ॥ 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाञ्च देवा: 'आभियोगिकान्' अभियोजनमभियोग:, प्रेष्यकर्म्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'शब्दायन्ते' आकारयन्ति, शब्दायित्वा च तानेवमवादिपुः - 'क्षिप्रमेव ' शीघ्रमेव भो देवानां प्रियाः ! विजयस्य देवस्य 'महार्थ' महान अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महार्थ, तथा महान् अर्ध: - पूजा यत्र स महार्घस्तं, महं- उत्सवमर्हतीति महार्हस्तं 'विपुल' विस्तीर्ण शक्राभिषेकवद् इन्द्राभिषेकमुपस्थापयत । 'तए णं ते' इत्यादि, ततस्ते अभियोगिका देवाः सामानि - कपर्पदुपपन्नकैर्देवैरेवमुक्ताः हतुचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसबसविसप्पमाणहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट' इति पूर्ववत्, विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन ? इत्याह- ' एवं देवा तहत्ति आणाए' इति हे देवा ! एवं यथैव यूयमादिशत तथैवाज्ञया - युष्मदादेशेन कुर्म्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्व दि भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयत्नविशेपेण 'समोहणंति' समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताञ्चात्मप्रदेशान् दूरतो विक्षिपन्ति तथा चाह - 'संखेज्जाणि जो
For Private & Personal Use Only
प्रतिपन्त विजयदे वाभिषेकः
उद्देशः २
सु० १४१
॥ २४३ ॥
jainelibrary.org