SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ २२९ ॥ Jain Education Int तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्र हस्तकाः सर्वरत्नमया यावत्प्रतिरूपका इति ॥ 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अर्द्धाष्टमानि' सार्द्धानि सप्त योजनान्यूर्द्धमुच्चैस्त्वेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणमुद्वेधेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणं 'विष्कम्भेन' विस्तारेण, 'वइरामयबद्दल संठिया सुसि लिट्ठपरिघट्टमट्ठसुपइडिया' इति वज्रमया-वज्ररत्नमयाः तथा वृत्तं वर्त्तुलं लष्टं - मनोज्ञं संस्थितं - संस्थानं येषां ते वृत्तलष्टसंस्थिताः, तथा सुलिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशानया पाषाणप्रतिमेव सुलिएपरिघृष्टाः मृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागप्यचलनात् 'अणेगवर पंचवण्णकुडभी सहस्सपरिमंडियाभिरामा' अनेकैर्वरैः - प्रधानैः पञ्चवर्णैः कुडभीसहस्रैः - लघुपताकासहस्रैः परिमण्डिताः स न्तोऽभिरामा अनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामा: 'वाउयविजयवेजयंतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंत सिहरा पासाईया जाव पडिरुवा' इति प्राग्वत् ॥ ' तेसि ण' मित्यादि तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्व वक्तव्यं यावद्वहवः सहस्रपत्रकहस्तका इति ॥ ' तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञता, 'अर्द्धत्रयोदश' सार्द्धानि द्वादश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन -उण्डलेन, 'अच्छाओ सण्हाओ रययमयकूडाओ' इत्यादि वर्णनं जगत्युपरि पुष्करिणीवन्निरवशेषं वक्तव्यं यावत् 'पासाईयाओ उद्गरसेणं पन्नत्ताओ' ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवश्वेदिकया प्रत्येकं २ For Private & Personal Use Only ३ प्रतिपत्तौ मनुष्या० सुधर्मा सभाव० उद्देशः २ सू० १३७ ॥ २२९ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy