________________
जी०च० ३९
Jain Education Infa
धारयः, जाम्बूनदा-जाम्बूनदनामक सुवर्णविशेषमया रक्ता-रक्तवर्ण मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईषदुन्मीलितपत्रभावाः पल्लवाः संजात परिपूर्णप्रथमपत्र भावरूपा वराङ्कुराः - प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः कचित्पाठ: 'जंबूणयरत्तमउयसुकुमालकोमलपवालपल्लवङ्कुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि - अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालपल्लवाङ्कुराः - यथोदितस्वरूपा अग्रशिखराणि च येषां ते तथा, 'विचित्तमणिरयण सुरभि कुसुमफलभरेण नमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता- नामं ग्राहिताः शाला:-शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः, सह उद्योतेन वर्त्तन्ते मणिरत्नानामुद्योतभावात् सोद्यताः, अधिकं - अतिशयेन नयनम| नोनिर्वृतिकराः, अमृतरससमरसानि फलानि येषां ते अमृतरससमकलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् || 'ते णं चेइयरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवङ्गछत्रोपगशिरीप सप्तपर्णद्धिपणे लोधवचन्दननीपकुटज कदम्बपनसतालतमा लप्रियालप्रियङ्गुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात्सं परिक्षिप्ताः ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिविकास्यन्दमानिकाप्रतिमोचनासुरम् इति । ' तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिर्नागलताभिरशोकलताभिश्चम्पकलताभिधूतलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलताभिः सर्वतः समन्तात्संपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ' इत्यादिलतावर्णनं तावद्वक्तव्यं यावत् 'पडिरूवाओं' इति, व्याख्या चास्य पूर्ववत् ॥ 'तेसि ण' मित्यादि,
For Private & Personal Use Only
jainelibrary.org