________________
Jain Education
सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि ण' मित्यादि तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन, प्रेक्षागृह मण्डपानां च भूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥ 'तेसि ण' मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं वज्रमयः 'अक्षपादक : ' चतुरस्राकारः प्रज्ञप्तः तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिका: प्रचताः, ताश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहुल्येन 'सव्त्रमणिमईओ' इति सर्वात्मना मणिमय्य: 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानां वर्णनं परिवारश्च प्रायद्वक्तव्यः, तेषां च प्रेक्षागृह मण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञतानि, कृष्णचामरध्वजादि च प्राग्वद्वक्तव्यम् || 'तेसि ण'मित्यादि, तेषां प्रेक्षागृह मण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञताः, ताश्च मणिपीठिका: प्र त्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्य: अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन द्वे योजने आया* मविष्कम्भाभ्यां शङ्खाङ्क कुन्दद करजोऽमृतमथितफेनपुञ्जसंनिकाशाः सर्वात्मना रत्नमया अच्छा ऋक्षणा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि तेषां चैत्य* स्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहुल्येन सर्वाना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि,
For Private & Personal Use Only
www.jainelibrary.org