SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ % ACOCOCCACANCCCC ४ करत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , नानामणिकनकरत्नखचितः उ-- ज्वलो-निर्मलो बहुसम:-अत्यन्तसमः सुविभक्तो निचितो-निबिडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्ज्वबलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्ति चित्ता' इति तथा स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया-वत्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोद्गतवनवेदिकापरिगताभिरामा 'विजाहरजमलजुगलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वत् 'कंचणमणिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका-शिखरं यस्याः ४ सा काञ्चनमणिरत्नस्तूपिकाका 'नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि:-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः | पताकाभिश्च परि-सामस्त्येन मण्डितमनशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद् भूमेोमयादिना उपलेपनम् उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता-पूजिता लाउल्लोइयम हिता, तथा गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दईरेण-बलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितला, तथा उपचिता-निवेशिता बन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदणघडसुकयतो रणपडिदुवारदेसभागा' इति चन्दनघटै:-चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा, तथा 'आसत्तोसत्तववग्धारिय Join Education For Private Personal Use Only Jainelibrary.org H
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy