________________
Kआगतानि, कदाचित् चतसृभ्यः कदाचित्पञ्चभ्यः, काऽत्र भावना ? इति चेदुच्यते-इह लोकनिष्कुटे पर्यन्तेऽधस्त्यप्रतराग्नेयकोणावस्थितो शायदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिकपुद्गलाभाव: आग्नेयकोणावस्थितत्वात् पूर्वदिकपुद्गलाभावो
दक्षिणदिक्पुद्गलाभावश्च, एवमध:पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्धाऽपरोत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्गलानाहारयन्ति, यदा पुनः स एव पृथिवीकायिक: पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वा दिगभ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूवं द्वितीयादिप्रतरगतपश्चिमदिशमवलम्ब्य तिष्ठति तदाऽधस्त्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्तिनी अलोकेन व्याहतेति पञ्चदिगागतान् पुद्गलानाहारयति । 'वण्णतो' इत्यादि वर्णत: कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसतस्तिक्तानि यावन्मधुराणि, स्पर्शत: कर्कशानि यावक्षाणि, तथा तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अप्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् ‘विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि | विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यासशरीरक्षेत्रावगाढान् पुद्गलान् 'सव्वप्पणयाए' सर्वासना-सवैरेवासप्रदेशैराहारमाहाररूपान् पुद्गलानाहारयन्ति ॥ ९ गतमाहारद्वारं, साम्प्रतमुपपातद्वारमाह-'ते णं भंते'इत्यादि, ते भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्धृत्यो
त्पद्यन्ते ?, किं नैरयिकेभ्यः ? इत्यादि प्रतीतं, भगवानाह-गौतम! नो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिषेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात् , 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा
Jan Education
For Private
Personel Use Only
nelibrary.org