________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ २० ॥
Jain Education In
गप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति ?, अयमत्राभिप्रायः - सूक्ष्मपृथिवीकायिका हानन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त्तं कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः - किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौ - प्रथमसमये आहारयन्ति उत मध्ये - मध्यसमयेषु आहोश्वित् पर्यवसाने पर्यवसानसमये ?, भगवानाह - गौतम ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचित कालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त ! | आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि - खोचिताहारयोग्यान्याहारयन्ति उताविषयानि - खोचिताहारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसन्नं, तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथाऽऽचाराङ्गे “अगणिं पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्वा, यथाssसनं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं 'ति तिम्रो दिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि दिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [ - जीवावगाहक्षेत्रं ] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतस्त्रिदिश्यारभ्य प्रश्नः कृतः, भगवानाह - गौतम ! 'निव्वाघाएणं छद्दिसि' मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघातस्याभावो निर्व्याघातं ' शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः, नियमाद् - अवश्यंतया पदिशि व्यवस्थितानि, षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि - तिसृभ्यो दिग्भ्य
For Private & Personal Use Only
प्रतिपत्तौ
सूक्ष्मपृ
थ्वीकायाः
सू० १३
॥ २० ॥
jainelibrary.org