________________
नियतो वर्णविशेष इतियावत् , तस्य मार्गणं तत्प्रतीत्य कालवर्णान्यप्याहारयन्तीत्यादि सुगम, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, नि|श्चयत: पुनरवश्यं तानि पञ्चवर्णान्येव ॥ 'जाई वण्णतो कालवण्णाई' इत्यादि सुगम यावदनन्तगुणसुकिलाइंपि आहारयन्ति, एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि ॥ 'जाइं भंते! अणंतगुणलुक्खाई' इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टानि-आसप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह-स्पृष्टानि नो अस्पृष्टानि, तत्रालप्रदेशैः संस्पर्शनमात्सप्रदेशावगाढक्षेत्रा(हिरपि संभवति ततः प्रश्नयति-'जाई भंते'इत्यादि, यानि भदन्त ! | स्पृष्टान्याहारयन्ति तानि किमवगाढानि-आत्मप्रदेशैः सहकक्षेत्रावस्थायीनि उतानवगाढानि-आसप्रदेशावगाहक्षेत्राद्वहिरवस्थितानि?, | भगवानाह-गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भदन्त! अवगाढान्याहारयन्ति तानि किमनन्तरावगाढानि ?, कि
मुक्तं भवति ?-येष्वासप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरामप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि-एकद्वित्राद्यामप्रदेशै|र्व्यवहितानि ?, भगवानाह-गौतम! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त! अनन्तरावगाढान्याहारयन्ति तानि
भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि-स्तोकान्याहारयन्ति उत बादराणि-प्रभूतप्रदेशोपचितानि ?, भगवानाह-अणून्यप्यातिहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीका
कारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते । यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा?, इहोधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-ऊर्ध्वमप्याहारयन्ति-ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमधोऽपि तिर्यगपि । यानि भदन्त ! ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्य
-SARLANAGAR
Jain Education
a
l
For Private & Personel Use Only
Vijainelibrary.org