________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ २१ ॥
Jain Education In
सू० १३
वक्तव्यं, तञ्चैवम् - तिर्यग्योनेभ्यो ऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा केवलमसङ्ख्यातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्यो ऽप्यकर्मभूमिजान्तर- १ प्रतिपत्तौ द्वीपजास यातवर्षायुष्क कर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ॥ गतमुपपातद्वारमधुना स्थितिद्वारमाह - 'तेसि णं भंते !' सूक्ष्मपृइत्यादि सुगमं, नवरं जघन्यपदादुत्कृष्टपद्मधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह - 'ते 4थ्वीकायाः णं भंते जीवा' इत्यादि सुगमम् उभयथाऽपि मरणसम्भवात् । च्यवनद्वारमाह - ' ते णं भंते जीवा' इत्यादि, 'ते' सूक्ष्मपृथ्वीका - यिका भदन्त ! जीवा अनन्तरमुद्धृत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोद्धृत्येति भावः क्व गच्छन्ति ? -कोत्पद्यन्ते ?, एतेनात्मनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नास्ते निरस्ता द्रष्टव्याः, तथारूपे सत्यात्मनि यथोक्तप्रश्रार्थासम्भवात्, 'किं नेरइएस गच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह - 'नो नेरइएस गच्छन्ति' इत्यादि पाठसिद्धं 'जहा वक्तीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं तच्चोत्पादवद् भावनीयमिति ॥ गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह- 'ते णं भंते जीवा' इत्यादि, ते भदन्त ! जीवाः 'कतिगतिकाः ?' कति गतयो येषां ते कतिगतिकाः, 'कत्यागतिकाः ?” कतिभ्यो गतिभ्य आगतिर्येषां ते कत्यागतिकाः, भगवानाह - गौतम ! यागतिका नरकगतेर्देवगतेश्व सूक्ष्मेषूत्पादाभावात् द्विगतिका नरकगतौ देवगतौ च तत उद्वृत्तानामुत्पादाभावात्, 'परीत्ता' प्रत्येकशरीरिण:, असङ्ख्येया असोयलोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण ! हे आयुष्मन् ! 'से त्तं सुहुमपुढविक्वाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः ॥ उक्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकानभिधित्सुराह
For Private & Personal Use Only
॥ २१ ॥
dainelibrary.org