SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Jain Education Int 'वातकरका: ' वातभृताः करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रत्नकरण्डकास्ततो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठकाः क्रमेण वक्तव्याः, तदनन्तरं पुष्पादिचङ्गेर्यो वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्रका वक्तव्यास्ततो ध्वजाः तेषां च ध्वजानामिदं चरमसूत्रम् - 'एवामेव सपुव्वावरेणं विजयाए रायहाणीए एगमेगंसि दारंसि असीयं असीयं के उस हस्तं भवतीति मक्खायें' तदनन्तरं भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति- 'तेसि णं दाराण' मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रज्ञप्तानि तेषां च भौमानां भूमिभागा उल्लोकाच प्राग्वद्वक्तव्याः ॥ 'तेसि णं भोमाणमित्यादि, तेषां च भौमानां बहुमध्यदेशभागे यानि नवमनवमानि भौमानि तेषां बहुमध्यदेश भागेषु प्रत्येकं विजयदेवयोग्यं ( सिंहासनं यथा ) विजयद्वारपश्चमभौमे किन्तु सपरिवारं सिंहासनं वक्तव्यम्, अवशेषेषु च भौमेषु प्रत्येकं सपरिवारं सिंहासनं प्रज्ञप्तं, 'तेसि णं दाराणं उवरिमागारा सोलसविहेहिं रयणेहिं उबसोभिता' इत्यादि प्राग्वत् ॥ विजयाए णं राहाणीए चउद्दिसिं पंचजोयणसताई अबाहाए, एत्थ णं चत्तारि वणसंडा पण्णत्ता, तंजा - असोगवणे सत्तवण्णवणे चंपगवणे चूतवणे, पुरत्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूतवणे । ते णं वणसंडा साइरेगाई दुवालस जोयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किन्हा किन्होभासा वणसंडवण्णओ भाणियव्वो जात्र बहवे वाणमंतरा देवा य देवीओ य For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy