________________
श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः
प्रतिपत्ती मनुष्या० विजयाराजधानी उद्देशः २ सू०१३५
॥२१९॥
इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, 'तावइयं चेव पवेसेणं' एतावदेव-एकत्रिंशद् योजनानि क्रोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेष तावद्वक्तव्यं यावद्वनमालावर्णनम् ।। 'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्ठको पीठविशेषौ प्रज्ञप्तौ, ते च प्रकण्ठका: प्रत्येकमेकत्रिंशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान बाहल्येन 'सव्ववइरामया' इति सर्वात्मना ते प्रकण्ठका वज्ररत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्।। तेसिं पगंठगाण'मित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेष: प्रज्ञप्तः ॥ ते णं पासायवडेंसगा' इत्यादि, ते प्रासादावतंसका एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां, तेषां च प्रासादानाम् 'अब्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यत: स्वरूपवर्णनम् उल्लोकवर्णन मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजयदृष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत् , शेषमपि तोरणादिकं विजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह-'तोरणे'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैपेधिक्या द्वे द्वे तोरणे वक्तव्ये, तेपांच तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभजिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसङ्घाटादयः सङ्घाटा वक्तव्याः ततो हयपतधादयः पतयस्तदनन्तरं हयवीथ्यायो वीथयस्ततो हयमिथुनकादीनि मिथुनानि ततः पद्मलतादयो लता: ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका वक्तव्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्तत: स्थालानि तत: पाध्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु
||२१९॥
Jain Education Insi
For Private & Personel Use Only
X
njainelibrary.org