________________
जी० च० ३७
Jain Education Inte
'सेकेणणं भंते! एवं वुच्चइ' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमे' त्यादि, गौतम ! विजये द्वारे विजयो नाम, प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः - प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देव: 'महर्द्धिकः ' महती ऋद्धिः - भवनपरिवारादिका यस्यासौ महर्द्धिक: 'महाद्युतिकः' महती द्युतिः शरीरगता आभरणगता च यस्यासौ महायुतिक:, तथा महद् बलं - शारीरः प्राणो यस्य स महाबलः, तथा महदू यशः - ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या - प्रसिद्धिर्यस्य स महेशाख्यः, अथवा ईशनमीशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्तभूतव्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खे' इति पाठस्तत्र महत् सौख्यं प्रभूतसद्वेद्योदयवशाद् यस्य स महासौख्यः पल्योपमस्थितिकः परिवसति, स च तत्र चतुर्णी सामानिकसहस्राणां चतसृणामप्रमहिषीणां | सपरिवाराणां प्रत्येकमेकैक सहस्रसय परिवार सहितानां तिसृणां अभ्यन्तरमध्य मबाह्यरूपाणां यथाक्रममष्टदश द्वादशदेव सहस्र सङ्ख्याकानां पर्षदां सप्तानामनीकानां - हयानीकगजानीकरथानीकपदात्यनीकमहिपानीकगन्धर्वानी कनाट्यानीक रूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च ' आहेवच्चं 'ति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः | पुरपतिस्तस्य कर्म्म पौरपत्यं सर्वेषामप्रेसरत्वमिति भावः, तच्चाप्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तक सामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य तत आह भर्तृत्वं - पोषकत्वं 'डुभृञ धारणपोषणयो:'
For Private & Personal Use Only
w.jainelibrary.org