________________
'नागदन्तकाः' अङ्कटका: प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि 'रजतमयानि' रूप्यपयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्केषु बहवो 'वातकरकाः' जलशून्या: करका इत्यर्थः प्रज्ञप्ताः ॥ 'ते णमित्यादि ते वातकरका: 'कृष्णसूत्रसिक्कगवस्थिताः' इति, आच्छादनं गवस्था:(ताः) संजाता एध्विति गवस्थिताः कृष्णसूत्रै:-कृष्णसूत्रमयैर्गवस्थैरिति गम्यते,, सिककेषु गवस्थिताः कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिक्ककगवस्थिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्रज्ञप्ती, 'से जहा नामए' इत्यादि, स यथा नाम-राज्ञश्चतुरन्त चक्रवर्तिनः, चतुर्यु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्र' आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतटः स्फाटिकपटलमयाच्छादन: 'साय पभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासति, 'एवमेवे'त्यादि सुगमम् ॥ 'तेसिणं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठी' हय कण्ठप्रमाणौ रत्नविशेषौ प्रज्ञप्ती, एवं गजकिनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च मूलटीकायां-"हयकण्ठौ हयकण्ठप्रमाणौ रत्नविशेषौ,” एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह -सव्वरयणामया' सर्वे 'रत्नमयाः' रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेयौं प्रज्ञप्तौ, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेयोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, 'अच्छा' इत्यादि प्राग्वत् ॥ एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे
Jain Education
For Private
Personel Use Only
r
ainelibrary.org