________________
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या०
विजयद्वा
वर्णनं उद्देशः १ सू०१३१
॥२१३॥
दहपडिपुण्णा इव चिट्ठति' अच्छा-निर्मला: शुद्धस्फटिकवत्रिच्छटिता अत एव नखसंदष्टा:-नखा: संदष्टा मुसलादिभिश्चुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छे स्त्रिच्छटितैः शालितन्दुलै खसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह–'सव्वजंबूनदमया' सर्वासना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् 'महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायौ प्रज्ञप्ते, ताश्च पात्र्यः 'अच्छोदकपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात् , नानाविधैः ‘फलहरितैः' हरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपा: शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत् , 'महयामहया' इति अतिशयेन महत्यो गोकलिख (र) चक्रसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सप्रतिष्ठको आधारविशेषौ प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः [सु]सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सवरयणामया' इत्यादि तथैव ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-"मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नामिका: 'अच्छा' इत्यादि प्राग्वत् ॥ 'तासु णं मणोगुलियासु बहवे' इत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमयाः
6
॥२१३॥
For Private
K
Jain Education in
Personal Use Only
ainelibrary.org