________________
॥ २१४ ॥
सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रुप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि ' मलयगि* वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसङ्ख्याका वरकाञ्चनशलाका - वरकाञ्चनमय्यः श रीयावृत्तिः २ाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दद्दरमलयसुगन्धिसन्योज्यसुरहिसीयलच्छाया' इति दर्दर:- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु + | ऋतुषु सुरभि: शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेपां अष्टानां मङ्गलानां भक्त्या विच्छित्त्या चित्रं - आलेखो | येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकारः - चन्द्राकृतिः स उपमा येषां तानि तथा चन्द्रमण्डलवद्वृत्तानीति भावः ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवइवे रुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:- चन्द्रकान्तो वज्रं वैडूर्ये च प्रतीतं चन्द्रप्रभवत्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु तथा, एवंरूपावित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् तथा 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंक कुंददगरय अमय महियफेणपुंजसंनिकासाओ' इति शङ्खः - प्रती तोऽङ्को - रत्नविशेषः कुन्देति - कुन्दपुष्पं दकरज:- उदककणा: अमृतमथितफेनपुञ्जः - क्षीरोदजलमथनसमुत्थफेनपुस्तेषामिव संनिकाश:प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ 'तैलसमुद्रकौ' सुगन्धितैलाधारविशेषौ उक्तं च जीवाभिगम मूलटीकायां – “तैलसमुद्रको सुगन्धितैलाधारौ” एवं कोष्ठादिसमुद्रका अपि वाच्या:, अत्र
ते
For Private & Personal Use Only
श्रीजीवाजीवाभि०
Jain Education
३ प्रतिपत्तौ मनुष्या०
| विजयद्वावर्णनं
उद्देशः १
सू० १३१
॥ २१४ ॥
jainelibrary.org