SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भेन अष्ट योजनानि बाहल्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशा:] प्रयुक्ता, ना-18 नामणिमयानि 'पादशीर्षकाणि' पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईपदच्छाः 'वज्रमया' वज्ररत्नापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेच्चं' व्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-“वेच्चे वाणक्कतेण"मित्यादि, तानि च सिंहासनानि ईहामृगऋपभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहम-18 णिरयणपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपच्चत्थुयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूर-19 काणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपात: प्राकृतत्वात् , नवा त्वम् येषां ते नवत्वच: कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि वतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, क्वचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वक्कुशान्तचिल्ल(लित्त)केसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसर-1 शब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैनवत्वकुशान्तलिच्च(त)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , 'आईणगरुयबूरनवणीयतूलफासा' इति आजिनक ACCORAKASHASA Jain Education a l For Private Personal Use Only IMIT Nw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy