________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २०९ ॥
Jain Education Int
| विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः' उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव 'गगणतलमणुलिहन्त सिहरा' इति, | गगनतलम् - अम्बरम् अनुलिखन्ति - अभिलङ्घयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि - जालकानि यानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जराद् उन्मीलिता इव - बहिष्कृता इव यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् बहिष्कृत मत्यन्तमविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भाव:, तथा मणिकनकानि - मणिकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भिन्यादिषु पुण्डूवि - शेषा अर्द्धचन्द्राश्च द्वारादिपु तैश्चित्रा - नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्र चित्राः अन्तर्बहिश्च ( नाना -अनेकप्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि - तत्प्रधानानि यानि दामानि - पुष्पमालास्तैरलङ्कृताः ) ' श्लक्ष्णाः ' मसृणा:, तथा तपनीयं सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तदं प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि । प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां च प्रासादावतंसकानाम् 'उल्लोकाः' उपरितनभागाः पद्मलताभक्तिचित्रा अशोकलताभक्तिचित्राश्च|म्पकलताभक्तिचित्राश्चूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमया: 'अच्छा सण्हा जाव | पडिवा' इति विशेषणकदम्बकं प्राग्वत् ॥ ' तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से है जहा नामए आलिंगपुक्खरे इ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ॥ 'तेसि ण' मित्यादि,
॥ २०९ ॥
For Private & Personal Use Only
३ प्रतिपत्तौ मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १३०
jainelibrary.org