SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ते णं दामा तवणिजलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं उप्पि बहवे अट्ठमंगलगा पण्णत्ता सोत्थिय तधेव जाव छत्ता ॥ (सू० १३०) 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वौ द्वौ प्रकण्ठको प्रज्ञप्तौ, प्रकण्ठको नाम पीठविशेषः, आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ,” चूर्णिकारस्त्वेवमाह-'आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठावि"ति, ते च प्रकण्ठकाः प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन 'सव्ववइरामया' इति सर्वासना ते प्रकण्ठका वज्रमया: 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि णं पकंठयाणमित्यादि, तेषां च प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायां-"प्रासादावतंसक: प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येकं चत्वारि योजनान्यूर्द्ध मुश्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्याम् , 'अभुग्गयमूसियपहसियाविवे'ति अभ्युद्गता-आभिमुख्येन सर्वतो विनिगता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा | निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापटलया प्रहसिताविव प्रकर्षेण हसिताविव, तथा 'विविहमणिरयणभत्तिचित्ता' विविधा अनेकप्रकारा ये मणयः-चन्द्रकान्ताद्या यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिमिश्चित्रा-नानारूपा आश्चयवन्तो वा नानाविधमणिरत्नभक्तिविचित्राः 'वाउद्धयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोबूता-वायुकम्पिता विजयः -अभ्युदयस्तसंसूचिका वैजयन्तीनामानो (नाम्यो) याः पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो Jain Education in For Private & Personel Use Only Anjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy