________________
CLASSACROCOCIENCIESCOOC
केसीओ' इति असिता:-कृष्णा: केशा यासां ता असितकेश्य: 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदव:-कोमला विशदा-निर्मला: प्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लित-संवृतमनं येषां शेखरककरणात् ते संवेल्लितायाः शिरोजा:-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजा: 'नाणामल्लपिणद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , 'मुहिगेज्झसु
मज्झा' इति मुष्टिग्राह्यं सुष्ठ-शोभनं मध्यं-मध्यभागो यासां ता मुणिग्राह्यसुमध्या: 'आमेलगजमलजुगलवट्टियअब्भुण्णयपीताणरइयसंठियपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ आमेलक-आपीडः शेखरक इत्यर्थः | तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्तिती-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्थितौ च पयोधरौ यासा तास्तथा, 'ईसि असोगवरपायवसमुडियाओ' इति ईपत्-मनाक् अशोकवरपादपे समवस्थिता-आनिता ईषदशोकवरपादपसमवस्थिताः, तथा वामहस्तेन गृहीतमग्रं शालायाः-शाखाया अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताप्रशाला:, 'ईसिं अडुऽच्छिकडक्खचिदिएहिं लूसेमाणीओ विवे'ति ईपत्-मनाग 'अड्डे'तिर्यग्वलितम् अनि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य | इव सुरजनानां मनांसि 'चक्खुल्लोयणलेसेहि य अण्णमण्णं विज्झेमाणीओ इव' अन्नमन्नं-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैविध्यमाना इव, किमुक्तं भवति ?-एवं नाम तात्तिर्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनत स्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओं' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद् आनन-मुखं यासां ताश्चन्द्रानना: 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं
CASS
Jain Education
For Private Personal use only
Shainelibrary.org