SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 4% AA%9A%E+ 8| इति भावः 'अभिनिसिहा' इति अभिमुखं-बहिर्भागाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग-भित्तिप्र देशे सुष्टु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीता: 'अहेपन्नगद्धरूवा' इति अध:-अधस्तनं यत्पन्नगस्य-सर्प| स्यार्द्ध तस्येव रूप-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः 'सव्ववइरामया' सर्वासना वनमयाः ‘अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् , 'महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकारा: प्रज्ञता हे श्रमण ! हे आयुष्मन् ! ॥'तेसु णं नागदंतएसु' इत्यादि, तेषु च नागदन्तकेषु बह्वः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिता: 'माल्यदामकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापाः, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः ॥ 'ते णं दामा' इत्यादि, तानि दामानि 'तवनिजलंबूसगा' इति तपनीय:-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि 'सुवगणपयरगमंडिया'इति पार्श्वत: सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविह हारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसतरिकास्तैरुपशोभित: समुदायो येषां तानि तथा 'जाव सिरीए अतीव उवसोभेमाणा चिट्ठति' अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-'ईसिमण्णमण्णमसंपत्ता पुब्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइजमाणा पलंबमाणा पलंबमाणा परंभ(झंझ)माणा परंभ(झंझ)माणा ओरालेणं मणुन्नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सब्वतो समंता आपूरेमाणा आपूरेमाणा सिरीए उवसोभेमाणा उवसोभेमाणा चिट्ठति । एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागदं प्रमाणा चिटुंति अपलबमाणा परंभासरीए For Private 8 Personal Use Only Inin Education Mjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy