________________
Jain Education Inte
सा लतेत्यभिधीयते, नागलतामयमण्डपकाः, अतिमुक्तकमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका - एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ 'तेसु ण' मित्यादि तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु यावत्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहव: शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अप्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया कोंचा सणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उन्नयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया मयरासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सीहा सणसंठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठिया' इति परिग्रहः अन्ये च बहवः शिलापट्टका यानि विशिष्ट चिह्नानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत्संस्थिता वरशयनासनविशिष्ट संस्थानसंस्थिताः, कचित् 'मांसल सुघुडविसिद्धसंठाणसंठिया' इति पाठस्तत्रान्ये च बहवः शिलापट्ट का मांसला इव मांसला: अकठिना इत्यर्थः सुघुष्टा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थानसंस्थिताच 'आईणगरूयवूरनवणीयतूलफासा मज्या सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थान संस्थित पृथिवी शिलापट्टकेषु णमिति पूर्ववद् वहवो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकाय प्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्द्धस्थानेन वर्त्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षि णपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्त्य वामपार्श्वनावतिष्ठन्ति 'रमन्ते' रतिमावन्नन्ति 'ललन्ति' मनईप्सितं यथा भवति
For Private & Personal Use Only
ainelibrary.org