________________
'नियइपब्वया' इति नियत्या-नैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः' दारुनिर्मापिता इव पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्ड
पकाः, उक्तं च मूलटीकायां-दकमण्डपका: स्फाटिकमण्डपका” इति, एवं दक मञ्चका दकमालका दकप्रासादाः, एते च दकमतण्डपादयः केचित् 'उसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा' इति क्षुल्ला लघवः कचित् 'खडख(ह)डगा' इति लघव आ| यताच, तथा अन्दोलकाः पक्ष्यन्दोलकाच, तत्र यत्रागत्य मनुष्या आसानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यासानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलका: पक्ष्यन्दोलकाश्च तस्मिन् वनपण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बह्वः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता: ? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इ. त्यादि विशेषणजातं पूर्ववत् ॥ 'तेसु ण'मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेपु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येपामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहा: तानि हंसासनानि, एवं क्रौञ्चासनानि गरुडा
सनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि-निन्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि बायेपामधोभागे पीठिकावन्धः पक्ष्यासनानि येपामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि,
पद्मासनानि-पद्माकाराणि आसनानि 'दिसासोवत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रदाममासनानां सङ्घाहिका सङ्ग्रहणिगाथा-"हंसे १ कोंचे २ गरुडे ३ उण्णय ४ पणए य ५ दीह ६ भद्दे य ७ । पक्खे ८ मयरे ९
CAL
Jain Education
For Private Personal Use Only
Mr.jainelibrary.org