SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० 1 रीयावृत्तिः प्रतिपत्ती सूक्ष्मपृहाथ्वीकायाः सू०१३ ॥१८॥ जिज्ञासुः पृच्छति-'ते णं भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्दर्शनित्वं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुज्ञानः ॥ गतं दर्शन- | द्वारं, ज्ञानद्वारमाह-'ते णं भंते जीवा'इत्यादि, अज्ञानत्वं मिथ्यादृष्टित्वात् , तदपि चाज्ञानत्वं मत्यज्ञानश्रुताज्ञानापेक्षया, तथा चाह -नियमा दुअण्णाणी'त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, यत उक्तम्-"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोहग्भिः ॥२॥" योगद्वारमाह-'ते णं भंते' इत्यादि पाठसिद्धम् । गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगो द्विविध:-साकारोऽनाकारश्च, तत्राकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाम: |"आगारो उ विसेसो" इति वचनात् , सह आकारो यस्य येन वा स साकारो-ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्तं च-"ज्ञानाज्ञाने पञ्च निविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलदृग्विषयस्त्वनाकारः ॥ १॥” तत्र क एषामुपयोगः ? इति जिज्ञासुः पृच्छति-'ते णं भंते !' इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ॥ साम्प्रतमाहारद्वारमाह-'ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालकारे भदन्त ! जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम ! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात् , न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशामका वा स्कन्धा |जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसङ्ख्यातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्यस्थितिकानि मध्यमस्थितिकानि उ. |त्कृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् , आह् च मूलटीकाकारः-"काल ॥१८॥ Jain Education a l For Private Personel Use Only Kanaw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy