SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्त्रियाः पुंस्यभिलाष: स्त्रीवेदः, पुंसः स्त्रियामभिलाष: पुंवेदः, उभयोरप्यभिलाषो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदकाः, नपुंसकवेदका: संमूछिमत्वात् , 'नारकसंमूछिमा नपुंसका' इति भगवद्वचनम् ॥ पर्याप्तिद्वारमाह-"तेसि णं भंते' इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तन्निरूपणार्थमाह-'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमा सावेव म्रियन्ते नार्वाक , यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ ससाम्प्रति दृष्टिद्वारमाह-'ते णं भंते !' इत्यादि सुगम, नवरं सम्यग्-अविपरीता दृष्टि:-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपर्यस्ता दृष्टिर्येषां भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टयः, एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिविकला: स-|| म्यग्मिथ्यादृष्टयः, निर्वचनसूत्रं-गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात् , सासा|दनसम्यक्त्ववतां तन्मध्ये उत्पादाभावात् , ते ह्यतिसंक्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणामत्वात्तेषां सम्यग्मिध्यादृष्टित्वपरिणामोऽपि न भवति, नापि सम्यग्मिथ्या-| दृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषामके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनं-रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् , अवधिरेव दर्शनंरूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शनं-सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति | Jain Education in For Private & Personel Use Only A jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy