________________
सुखोत्तारा: ततः पूर्वपदेन विशेषणसमासः 'नाणामणितित्थसुत्रद्धाओं' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि 8 यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुब्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चउक्कोणाओ' इति है। चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच्च विशेषणं वापी: कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, तथा आनुपूर्वेण-क्रमेण नीचैनीचस्तरभावरूपेण सुष्ठ-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्थानं शीतलं जलं यासु ता आनुपूर्यसुजातवप्रगम्भीरशीतलजला: 'संछण्णपत्तभिसमुणालाओ' संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यासु ताः संछन्नपत्रबिसमृणाला:, इह बिसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदै:-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ता: पट्पदपरिभुज्यमानकमला:, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा 'पडिहत्था' अतिरेकिता: अतिप्रभूता इत्यर्थः “पडिहत्थमुद्धमायं अहिरेइयं च जाण आउण्णं" इति वचनात् , उदाहरणं चात्र-"घणपडिहत्थं गयणं सराई नवसलिलसुट्ठ(उद्ध)मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥१॥” इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः-शकुनमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सर:पतिपर्यवसाना: प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम् , अत्राभिमुख्य प्रतिशब्दो न वीप्साविवक्षायां, पश्चात्प्रत्येकशब्दस्य [द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ता: प्रत्येकं वनषण्डपरिक्षिप्ताश्च, 'अप्पेगतियाओ' इत्यादि, अपि ढाथै बाढमेकका:-काश्चन
CCCCCCCCMORERAL
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org