________________
Jain Education Int
वत्, तालवंशस्वरादिसमनुगतं समं, तथा यत्स्वरघोलनाप्रकारण ललतीव तत् सह ललितेनेति सललितं यदिवा यच्छ्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् ॥ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिपुराह - 'रत्तं तिट्ठाणकरणसुद्ध'मित्यादि, 'रक्तं' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थान करणशुद्धं' त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन - क्रियया शुद्धं त्रिस्थानकरणशुद्धं तथथा - उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धं च तत्र यदि उरसि स्वर: स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्त्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं यदिवा यद् उरः कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरः कण्ठशिरोविशुद्धत्वा त्रिस्थान करणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तत्रीतलताललयमहसुसंप्रयुक्तं भवति सकुहरे वंशे गुञ्जति ४ तत्र्यां च वाद्यमानायां यत्तत्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्रीसुसंप्रयुक्तं, तथा परस्पराहत हस्ततालस्वरानुवर्त्ति यद् गीतं तत्ता
सुसंप्रयुक्तं यन् मुरजर्कसिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्त्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा शृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तत्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं त्रंशतत्र्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं, तथा 'महुर' मिति मधुरं प्राग्वत्, तथा 'सम' मिति तालवंशस्वरादिसमनुगतं ॐ समं सललितं प्राग्वद् अत एव मनोहरं पुनः कथम्भूतम् ? इत्याह- 'मउयरिभियपयसंचारं ' तत्र मृदु-मृदुना खरेण युक्तं न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु - घोटनास्वरविशेषेषु संचरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेषु गेयनिवद्धेषु सवारो यत्र गेये तत् मृदुरिभितपदसारं, तथा 'सुरई' इति शोभना रतिर्यस्मिन् श्रोतॄणां तत्सुरति, तथा शोभना नतिः
For Private & Personal Use Only
jainelibrary.org